drsharma

Maneesha Panchakam – The five gems

मनीषा पञ्चकं

जाग्रत्स्वप्न सुषुत्पिषु स्फुटतरा या संविदुज्जृम्भते
या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी,
सैवाहं न च दृश्य वस्त्विति दृढ प्रज्ञापि यस्यास्तिचे
च्चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम ||

ब्रह्मैवाहमिदम् जगच्छ सकलं चिन्मात्र विस्तारितम्

सर्वं चैतदविद्यया त्रिगुणया सेषम् मया कल्पितं,

इथ्थं यस्य दृध मतिस्सुखतरे नित्ये परे निर्मलेः

च्चण्डालोस्तु स तु द्विजोस्तु गुरुरित्येषा मनीषा मम ||
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचागुरोरः

नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याज शान्तात्मना,

भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके

प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥

या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते

यद्भासा हृदयाक्षदेहविषया भान्ति स्वतो चेतनाः,

ताम् भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय

न्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ||

यत्सौख्याम्बुधि लेशलेशत इमे शक्रादयो निर्वृता

यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः

यस्मिन्नित्य सुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मविद्

यः कश्चित्स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥

Purport of the five gems of Maneesha Panchakam

The Epilogue

दासस्तेहं देहदृष्ट्यास्मि शंभो

जातस्तेशो जीवदृष्ट्या त्रिदृष्टे

सर्वस्यात्मन् अत्मदृट्या त्वमेव

त्वेवं मे धीर्निश्चिता सर्वशास्त्रैः ॥

O! Lord, the three eyed one (who is the all knower of the past, present and future)! In the form of this physical equipment, the body, I am the servant of You and thus of all. In the form of the life principle with in me, I am the part and parcel of You and thus of all. In the form the soul, You are within me and similarly in every other being or animal or thing that I behold. I have arrived at this conclusion after thorough reflection in my intellect – illuminated by all the sacred texts.

This concludes the sacred teaching Maneesha Panchakam by Jagad Guru Sri Adi Sankarachaya

Leave a Comment

Your email address will not be published. Required fields are marked *